हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Ayodhya Kanda Sarga 83 – अयोध्याकाण्ड त्र्यशीतितमः सर्गः (८३)


॥ भरतवनप्रस्थानम् ॥

ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥ १ ॥

अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।
अधिरुह्य हयैः युक्तान् रथान्सूर्यरथोपमान् ॥ २ ॥

नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम् ॥ ३ ॥

षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥

शतं सहस्राण्यश्वानां समारूढानि राघवम् ।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ ५ ॥

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयन संहृष्टा ययुर्यानेन भास्वता ॥ ६ ॥

प्रयाताश्चार्यसङ्घाताः रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥

दृष्ट एव हि नः शोकमपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥

इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाश्शुभाः ।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ १० ॥

ये च तत्रापरे सर्वे सम्मता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा ॥ ११ ॥

मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः ।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥

मायूरकाः क्राकचिका रोचकाः वेधकास्तथा ।
दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ १३ ॥

सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।
स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥

रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ॥ १५ ॥

समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः ।
गोरथैः भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥

सुवेषाः शुद्ध वसनास्ताम्र मृष्टानुलेपनाः ।
सर्वे ते विविधैः यानैः शनैर्भरतमन्वयुः ॥ १७ ॥

प्रहृष्टमुदिता सेना साऽन्वयात्कैकयी सुतम् ।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ १८ ॥

ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गां शृङ्गिबेरपुरं प्रति ॥ १९ ॥

यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ॥

उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कतम् ।
व्यवतिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥

निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद्वाक्यकोविदः ॥ २२ ॥

निवेशयत मे सैन्यमभिप्रायेण सर्वतः ।
विश्रान्तः प्रतरिष्यामः श्वैदानीमिमां नदीम् ॥ २३ ॥

दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थम् अवतीर्योदकं नदीम् ॥ २४ ॥

तस्यैवं ब्रुवतोऽमात्यास्तथा इत्युक्त्वा समाहिताः ।
न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक् पृथक् ॥ २५ ॥

निवेश्य गङ्गामनु तां महानदीम्
चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो
विचिन्तयानो भरतर्निवर्तनम् ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥


www.sanatanadharm.com